Original

नायं ते समयो रहस्यम् अधुना निद्राति नाथो यदिस्थित्वा द्रक्ष्यति कुप्यति प्रभुर् इति द्वारेषु येषां वचः ।चेतस् तान् अपहाय याहि भवनं देवस्य विश्वेशितुर्निर्दौवारिकनिर्दयोक्त्यपरुषं निःसोमशर्मप्रदम् ॥ ७१*१ ॥

Segmented

न अयम् ते समयो रहस्यम् अधुना निद्राति न अथो यदि स्थित्वा द्रक्ष्यति कुप्यति प्रभुः इति द्वारेषु येषाम् वचः चेतस् तान् अपहाय याहि भवनम् देवस्य विश्व-ईशितुः निः दौवारिक-निर्दय-उक्ति-अपरुषम् निः सोम-शर्म-प्रदम्

Analysis

Word Lemma Parse
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
समयो समय pos=n,g=m,c=1,n=s
रहस्यम् रहस्य pos=n,g=n,c=2,n=s
अधुना अधुना pos=i
निद्राति निद्रा pos=v,p=3,n=s,l=lat
pos=i
अथो अथो pos=i
यदि यदि pos=i
स्थित्वा स्था pos=vi
द्रक्ष्यति दृश् pos=v,p=3,n=s,l=lrt
कुप्यति कुप् pos=v,p=3,n=s,l=lat
प्रभुः प्रभु pos=a,g=m,c=1,n=s
इति इति pos=i
द्वारेषु द्वार pos=n,g=n,c=7,n=p
येषाम् यद् pos=n,g=m,c=6,n=p
वचः वचस् pos=n,g=n,c=1,n=s
चेतस् चेतस् pos=n,g=n,c=8,n=s
तान् तद् pos=n,g=m,c=2,n=p
अपहाय अपहा pos=vi
याहि या pos=v,p=2,n=s,l=lot
भवनम् भवन pos=n,g=n,c=2,n=s
देवस्य देव pos=n,g=m,c=6,n=s
विश्व विश्व pos=n,comp=y
ईशितुः ईशितृ pos=n,g=m,c=6,n=s
निः निः pos=i
दौवारिक दौवारिक pos=n,comp=y
निर्दय निर्दय pos=a,comp=y
उक्ति उक्ति pos=n,comp=y
अपरुषम् अपरुष pos=a,g=n,c=1,n=s
निः निः pos=i
सोम सोम pos=n,comp=y
शर्म शर्मन् pos=n,comp=y
प्रदम् प्रद pos=a,g=n,c=2,n=s