Original

चेतश् चिन्तय मा रमां सकृद् इमाम् अस्थायिनीम् आस्थयाभूपालभ्रुकुटीकुटीविहरणव्यापारपण्याङ्गनाम् ।कन्थाकञ्चुकिनः प्रविश्य भवनद्वाराणि वाराणसीरथ्यापङ्क्तिषु पाणिपात्रपतितां भिक्षाम् अपेक्षामहे ॥ ६५ ॥

Segmented

चेतः चिन्तय मा रमाम् सकृद् इमाम् अस्थायिनीम् आस्थया भूपाल-भ्रुकुटी-कुटी-विहरण-व्यापार-पण्य-अङ्गनाम् कन्था-कञ्चुकिनः प्रविश्य भवन-द्वाराणि वाराणसी-रथ्या-पङ्क्तिषु पाणि-पात्र-पतिताम् भिक्षाम् अपेक्षामहे

Analysis

Word Lemma Parse
चेतः चेतस् pos=n,g=n,c=8,n=s
चिन्तय चिन्तय् pos=v,p=2,n=s,l=lot
मा मा pos=i
रमाम् रम pos=a,g=f,c=2,n=s
सकृद् सकृत् pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
अस्थायिनीम् अस्थायिन् pos=a,g=f,c=2,n=s
आस्थया आस्था pos=n,g=f,c=3,n=s
भूपाल भूपाल pos=n,comp=y
भ्रुकुटी भ्रुकुटि pos=n,comp=y
कुटी कुटी pos=n,comp=y
विहरण विहरण pos=n,comp=y
व्यापार व्यापार pos=n,comp=y
पण्य पण्य pos=n,comp=y
अङ्गनाम् अङ्गना pos=n,g=f,c=2,n=s
कन्था कन्था pos=n,comp=y
कञ्चुकिनः कञ्चुकिन् pos=n,g=m,c=6,n=s
प्रविश्य प्रविश् pos=vi
भवन भवन pos=n,comp=y
द्वाराणि द्वार pos=n,g=n,c=2,n=p
वाराणसी वाराणसी pos=n,comp=y
रथ्या रथ्या pos=n,comp=y
पङ्क्तिषु पङ्क्ति pos=n,g=f,c=7,n=p
पाणि पाणि pos=n,comp=y
पात्र पात्र pos=n,comp=y
पतिताम् पत् pos=va,g=f,c=2,n=s,f=part
भिक्षाम् भिक्षा pos=n,g=f,c=2,n=s
अपेक्षामहे अपेक्ष् pos=v,p=1,n=p,l=lat