Original

त्वं राजा वयम् अप्य् उपासितगुरुप्रज्ञाभिमानोन्नताःख्यातस् त्वं विभवैर् यशांसि कवयो दिक्षु प्रतन्वन्ति नः ।इत्थं मानधनातिदूरम् उभयोर् अप्य् आवयोर् अन्तरंयद्य् अस्मासु पराङ्मुखो ऽसि वयम् अप्य् एकान्ततो निःस्पृहा ॥ ५१ ॥

Segmented

त्वम् राजा वयम् अप्य् उपास्-गुरु-प्रज्ञा-अभिमान-उन्नताः ख्यातस् त्वम् विभवैः यशांसि कवयो दिक्षु प्रतन्वन्ति नः इत्थम् मान-धन-अति दूरम् उभयोः अप्य् आवयोः अन्तरम् यद्य् अस्मासु पराङ्मुखो ऽसि वयम् अप्य् एकान्ततो निःस्पृहाः

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
वयम् मद् pos=n,g=,c=1,n=p
अप्य् अपि pos=i
उपास् उपास् pos=va,comp=y,f=part
गुरु गुरु pos=n,comp=y
प्रज्ञा प्रज्ञा pos=n,comp=y
अभिमान अभिमान pos=n,comp=y
उन्नताः उन्नम् pos=va,g=m,c=1,n=p,f=part
ख्यातस् ख्या pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
विभवैः विभव pos=n,g=m,c=3,n=p
यशांसि यशस् pos=n,g=n,c=2,n=p
कवयो कवि pos=n,g=m,c=1,n=p
दिक्षु दिश् pos=n,g=f,c=7,n=p
प्रतन्वन्ति प्रतन् pos=v,p=3,n=p,l=lat
नः मद् pos=n,g=,c=6,n=p
इत्थम् इत्थम् pos=i
मान मान pos=n,comp=y
धन धन pos=n,comp=y
अति अति pos=i
दूरम् दूरम् pos=i
उभयोः उभय pos=a,g=m,c=6,n=d
अप्य् अपि pos=i
आवयोः मद् pos=n,g=,c=6,n=d
अन्तरम् अन्तर pos=n,g=n,c=1,n=s
यद्य् यदि pos=i
अस्मासु मद् pos=n,g=,c=7,n=p
पराङ्मुखो पराङ्मुख pos=a,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
वयम् मद् pos=n,g=,c=1,n=p
अप्य् अपि pos=i
एकान्ततो एकान्ततः pos=i
निःस्पृहाः निःस्पृह pos=a,g=m,c=1,n=p