Original

वयं येभ्यो जाताश् चिरपरिगता एव खलु तेसमं यैः संवृद्धाः स्मृतिविषयतां ते ऽपि गमिताः ।इदानीम् एते स्मः प्रतिदिवसम् आसन्नपतनागतास् तुल्यावस्थां सिकतिलनदीतीरतरुभिः ॥ ४८ ॥

Segmented

वयम् येभ्यो जाताः चिर-परिगताः एव खलु ते समम् यैः संवृद्धाः स्मृति-विषय-ताम् ते ऽपि गमिताः इदानीम् एते स्मः प्रतिदिवसम् आसन्न-पतनाः गतास् तुल्य-अवस्थाम् सिकतिल-नदी-तीर-तरुभिः

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
येभ्यो यद् pos=n,g=m,c=5,n=p
जाताः जन् pos=va,g=m,c=1,n=p,f=part
चिर चिर pos=a,comp=y
परिगताः परिगम् pos=va,g=m,c=1,n=p,f=part
एव एव pos=i
खलु खलु pos=i
ते तद् pos=n,g=m,c=1,n=p
समम् समम् pos=i
यैः यद् pos=n,g=m,c=3,n=p
संवृद्धाः संवृध् pos=va,g=m,c=1,n=p,f=part
स्मृति स्मृति pos=n,comp=y
विषय विषय pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
गमिताः गमय् pos=va,g=m,c=1,n=p,f=part
इदानीम् इदानीम् pos=i
एते एतद् pos=n,g=m,c=1,n=p
स्मः अस् pos=v,p=1,n=p,l=lat
प्रतिदिवसम् प्रतिदिवसम् pos=i
आसन्न आसद् pos=va,comp=y,f=part
पतनाः पतन pos=n,g=m,c=1,n=p
गतास् गम् pos=va,g=m,c=1,n=p,f=part
तुल्य तुल्य pos=a,comp=y
अवस्थाम् अवस्था pos=n,g=f,c=2,n=s
सिकतिल सिकतिल pos=a,comp=y
नदी नदी pos=n,comp=y
तीर तीर pos=n,comp=y
तरुभिः तरु pos=n,g=m,c=3,n=p