Original

रात्रिः सैव पुनः स एव दिवसो मत्वा मुधा जन्तवोधावन्त्य् उद्यमिनस् तथैव निभृतप्रारब्धतत्तत्क्रियाः ।व्यापारैः पुनरुक्तभूतविषयैर् इत्थं विधेनामुनासंसारेण कदर्थिता वयम् अहो मोहान् न लज्जामहे ॥ ४४ ॥

Segmented

रात्रिः सा एव पुनः स एव दिवसो मत्वा मुधा जन्तवो धावन्ति उद्यमिन् तथा एव निभृत-प्रारभ्-तद्-तद्-क्रियाः व्यापारैः पुनः उक्त-भूत-विषयैः इत्थंविधेन अमुना संसारेण कदर्थिता वयम् अहो मोहान् न लज्जामहे

Analysis

Word Lemma Parse
रात्रिः रात्रि pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
एव एव pos=i
पुनः पुनर् pos=i
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
दिवसो दिवस pos=n,g=m,c=1,n=s
मत्वा मन् pos=vi
मुधा मुधा pos=i
जन्तवो जन्तु pos=n,g=m,c=1,n=p
धावन्ति धाव् pos=v,p=3,n=p,l=lat
उद्यमिन् उद्यमिन् pos=a,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
निभृत निभृत pos=a,comp=y
प्रारभ् प्रारभ् pos=va,comp=y,f=part
तद् तद् pos=n,comp=y
तद् तद् pos=n,comp=y
क्रियाः क्रिया pos=n,g=m,c=1,n=p
व्यापारैः व्यापार pos=n,g=m,c=3,n=p
पुनः पुनर् pos=i
उक्त वच् pos=va,comp=y,f=part
भूत भू pos=va,comp=y,f=part
विषयैः विषय pos=n,g=m,c=3,n=p
इत्थंविधेन इत्थंविध pos=a,g=m,c=3,n=s
अमुना अदस् pos=n,g=m,c=3,n=s
संसारेण संसार pos=n,g=m,c=3,n=s
कदर्थिता कदर्थित pos=a,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
अहो अहर् pos=n,g=n,c=1,n=s
मोहान् मोह pos=n,g=m,c=5,n=s
pos=i
लज्जामहे लज्ज् pos=v,p=1,n=p,l=lat