Original

आदित्यस्य गतागतैर् अहरहः संक्षीयते जीवितंव्यापारैर् बहुकार्यभारगुरुभिः कालो ऽपि न ज्ञायते ।दृष्ट्वा जन्मजराविपत्तिमरणं त्रासश् च नोत्पद्यतेपीत्वा मोहमयीं प्रमादमदिराम् उन्मत्तभूतं जगत् ॥ ४३ ॥

Segmented

आदित्यस्य गतागतैः अहरहः संक्षीयते जीवितम् व्यापारैः बहु-कार्य-भार-गुरुभिः कालो ऽपि न ज्ञायते दृष्ट्वा जन्म-जरा-विपत्ति-मरणम् त्रासः च न उत्पद्यते पीत्वा मोह-मयीम् प्रमाद-मदिराम् उन्मत्त-भूतम् जगत्

Analysis

Word Lemma Parse
आदित्यस्य आदित्य pos=n,g=m,c=6,n=s
गतागतैः गतागत pos=n,g=n,c=3,n=p
अहरहः अहरहर् pos=i
संक्षीयते संक्षि pos=v,p=3,n=s,l=lat
जीवितम् जीवित pos=n,g=n,c=1,n=s
व्यापारैः व्यापार pos=n,g=m,c=3,n=p
बहु बहु pos=a,comp=y
कार्य कार्य pos=n,comp=y
भार भार pos=n,comp=y
गुरुभिः गुरु pos=a,g=n,c=3,n=p
कालो काल pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
pos=i
ज्ञायते ज्ञा pos=v,p=3,n=s,l=lat
दृष्ट्वा दृश् pos=vi
जन्म जन्मन् pos=n,comp=y
जरा जरा pos=n,comp=y
विपत्ति विपत्ति pos=n,comp=y
मरणम् मरण pos=n,g=n,c=2,n=s
त्रासः त्रास pos=n,g=m,c=1,n=s
pos=i
pos=i
उत्पद्यते उत्पद् pos=v,p=3,n=s,l=lat
पीत्वा पा pos=vi
मोह मोह pos=n,comp=y
मयीम् मय pos=a,g=f,c=2,n=s
प्रमाद प्रमाद pos=n,comp=y
मदिराम् मदिरा pos=n,g=f,c=2,n=s
उन्मत्त उन्मद् pos=va,comp=y,f=part
भूतम् भू pos=va,g=n,c=1,n=s,f=part
जगत् जगन्त् pos=n,g=n,c=1,n=s