Original

सा रम्या नगरी महान् स नृपतिः सामन्तचक्रं च तत्पार्श्वे तस्य च सा विदग्धपरिषत् ताश् चन्द्रबिम्बाननाः ।उद्वृत्तः स राजपुत्रनिवहस् ते वन्दिनस् ताः कथाःसर्वं यस्य वशाद् अगात् स्मृतिपथं कालाय तस्मै नमः ॥ ४१ ॥

Segmented

सा रम्या नगरी महान् स नृपतिः सामन्त-चक्रम् च तत् पार्श्वे तस्य च सा विदग्ध-परिषद् ताः चन्द्र-बिंब-आनन उद्वृत्तः स राज-पुत्र-निवहः ते वन्दिनस् ताः कथाः सर्वम् यस्य वशाद् अगात् स्मृति-पथम् कालाय तस्मै नमः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
रम्या रम्य pos=a,g=f,c=1,n=s
नगरी नगरी pos=n,g=f,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
नृपतिः नृपति pos=n,g=m,c=1,n=s
सामन्त सामन्त pos=n,comp=y
चक्रम् चक्र pos=n,g=n,c=1,n=s
pos=i
तत् तद् pos=n,g=n,c=1,n=s
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
सा तद् pos=n,g=f,c=1,n=s
विदग्ध विदग्ध pos=a,comp=y
परिषद् परिषद् pos=n,g=f,c=1,n=s
ताः तद् pos=n,g=f,c=1,n=p
चन्द्र चन्द्र pos=n,comp=y
बिंब बिम्ब pos=n,comp=y
आनन आनन pos=n,g=f,c=1,n=p
उद्वृत्तः उद्वृत् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
निवहः निवह pos=n,g=m,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
वन्दिनस् वन्दिन् pos=a,g=m,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
कथाः कथा pos=n,g=f,c=1,n=p
सर्वम् सर्व pos=n,g=n,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
वशाद् वश pos=n,g=m,c=5,n=s
अगात् गा pos=v,p=3,n=s,l=lun
स्मृति स्मृति pos=n,comp=y
पथम् पथ pos=n,g=m,c=2,n=s
कालाय काल pos=n,g=m,c=4,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
नमः नमस् pos=n,g=n,c=1,n=s