Original

आधिव्याधिशतैर् जनस्य विविधैर् आरोग्यम् उन्मूल्यतेलक्ष्मीर् यत्र पतन्ति तत्र विवृतद्वारा इव व्यापदः ।जातं जातम् अवश्यम् आशु विवशं मृत्युः करोत्य् आत्मसात्तत् किं तेन निरङ्कुशेन विधिना यन् निर्मितं सुस्थिरम् ॥ ३३ ॥

Segmented

आधि-व्याधि-शतैः जनस्य विविधैः आरोग्यम् उन्मूल्यते लक्ष्मीः यत्र पतन्ति तत्र विवृत-द्वार इव व्यापदः जातम् जातम् अवश्यम् आशु विवशम् मृत्युः करोत्य् आत्मसात् तत् किम् तेन निरङ्कुशेन विधिना यन् निर्मितम् सु स्थिरम्

Analysis

Word Lemma Parse
आधि आधि pos=n,comp=y
व्याधि व्याधि pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
जनस्य जन pos=n,g=m,c=6,n=s
विविधैः विविध pos=a,g=n,c=3,n=p
आरोग्यम् आरोग्य pos=n,g=n,c=1,n=s
उन्मूल्यते उन्मूलय् pos=v,p=3,n=s,l=lat
लक्ष्मीः लक्ष्मी pos=n,g=f,c=1,n=s
यत्र यत्र pos=i
पतन्ति पत् pos=v,p=3,n=p,l=lat
तत्र तत्र pos=i
विवृत विवृ pos=va,comp=y,f=part
द्वार द्वार pos=n,g=f,c=1,n=p
इव इव pos=i
व्यापदः व्यापद् pos=n,g=f,c=1,n=p
जातम् जन् pos=va,g=m,c=2,n=s,f=part
जातम् जन् pos=va,g=m,c=2,n=s,f=part
अवश्यम् अवश्यम् pos=i
आशु आशु pos=i
विवशम् विवश pos=a,g=m,c=2,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
करोत्य् कृ pos=v,p=3,n=s,l=lat
आत्मसात् आत्मसात् pos=i
तत् तद् pos=n,g=n,c=2,n=s
किम् pos=n,g=n,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
निरङ्कुशेन निरङ्कुश pos=a,g=m,c=3,n=s
विधिना विधि pos=n,g=m,c=3,n=s
यन् यद् pos=n,g=n,c=1,n=s
निर्मितम् निर्मा pos=va,g=n,c=1,n=s,f=part
सु सु pos=i
स्थिरम् स्थिर pos=a,g=n,c=1,n=s