Original

अवश्यं यातारश् चिरतरम् उषित्वापि विषयावियोगे को भेदस् त्यजति न जनो यत् स्वयम् अमून् ।व्रजन्तः स्वातन्त्र्याद् अतुलपरितापाय मनसःस्वयं त्यक्ता ह्य् एते शमसुखम् अनन्तं विदधति ॥ १२ ॥

Segmented

अवश्यम् यातारः चिरतरम् उष्य अपि विषया वियोगे को भेदस् त्यजति न जनो यत् स्वयम् अमून् व्रजन्तः स्वातन्त्र्याद् अतुल-परितापाय मनसः स्वयम् त्यक्ता ह्य् एते शम-सुखम् अनन्तम् विदधति

Analysis

Word Lemma Parse
अवश्यम् अवश्यम् pos=i
यातारः या pos=v,p=3,n=p,l=lrt
चिरतरम् चिरतर pos=a,g=n,c=2,n=s
उष्य वस् pos=vi
अपि अपि pos=i
विषया विषय pos=n,g=m,c=1,n=p
वियोगे वियोग pos=n,g=m,c=7,n=s
को pos=n,g=m,c=1,n=s
भेदस् भेद pos=n,g=m,c=1,n=s
त्यजति त्यज् pos=v,p=3,n=s,l=lat
pos=i
जनो जन pos=n,g=m,c=1,n=s
यत् यत् pos=i
स्वयम् स्वयम् pos=i
अमून् अदस् pos=n,g=m,c=2,n=p
व्रजन्तः व्रज् pos=va,g=m,c=1,n=p,f=part
स्वातन्त्र्याद् स्वातन्त्र्य pos=n,g=n,c=5,n=s
अतुल अतुल pos=a,comp=y
परितापाय परिताप pos=n,g=m,c=4,n=s
मनसः मनस् pos=n,g=n,c=6,n=s
स्वयम् स्वयम् pos=i
त्यक्ता त्यज् pos=va,g=m,c=1,n=p,f=part
ह्य् हि pos=i
एते एतद् pos=n,g=m,c=1,n=p
शम शम pos=n,comp=y
सुखम् सुख pos=n,g=n,c=2,n=s
अनन्तम् अनन्त pos=a,g=n,c=2,n=s
विदधति विधा pos=v,p=3,n=p,l=lat