Original

न संसारोत्पन्नं चरितम् अनुपश्यामि कुशलंविपाकः पुण्यानां जनयति भयं मे विमृशतः ।महद्भिः पुण्यौघैश् चिरपरिगृहीताश् च विषयामहान्तो जायन्ते व्यसनम् इव दातुं विषयिणाम् ॥ ११ ॥

Segmented

न संसार-उत्पन्नम् चरितम् अनुपश्यामि कुशलम् विपाकः पुण्यानाम् जनयति भयम् मे विमृशतः महद्भिः पुण्य-ओघैः चिर-परिगृहीताः च विषया महान्तो जायन्ते व्यसनम् इव दातुम् विषयिणाम्

Analysis

Word Lemma Parse
pos=i
संसार संसार pos=n,comp=y
उत्पन्नम् उत्पद् pos=va,g=n,c=2,n=s,f=part
चरितम् चरित pos=n,g=n,c=2,n=s
अनुपश्यामि अनुपश् pos=v,p=1,n=s,l=lat
कुशलम् कुशल pos=a,g=n,c=2,n=s
विपाकः विपाक pos=n,g=m,c=1,n=s
पुण्यानाम् पुण्य pos=a,g=n,c=6,n=p
जनयति जनय् pos=v,p=3,n=s,l=lat
भयम् भय pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
विमृशतः विमृश् pos=va,g=m,c=6,n=s,f=part
महद्भिः महत् pos=a,g=m,c=3,n=p
पुण्य पुण्य pos=a,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
चिर चिर pos=a,comp=y
परिगृहीताः परिग्रह् pos=va,g=m,c=1,n=p,f=part
pos=i
विषया विषय pos=n,g=m,c=1,n=p
महान्तो महत् pos=a,g=m,c=1,n=p
जायन्ते जन् pos=v,p=3,n=p,l=lat
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
इव इव pos=i
दातुम् दा pos=vi
विषयिणाम् विषयिन् pos=a,g=m,c=6,n=p