Original

चण्डालः किम् अयं द्विजातिर् अथवा शूद्रो ऽथ किं तापसःकिं वा तत्त्वविवेकपेशलमतिर् योगीश्वरः को ऽपि किम् ।इत्य् उत्पन्नविकल्पजल्पमुखरैर् आभाष्यमाणा जनैर्न क्रुद्धाः पथि नैव तुष्टमनसो यान्ति स्वयं योगिनः ॥ ९६ ॥

Segmented

चण्डालः किम् अयम् द्विजातिः अथवा शूद्रो ऽथ किम् तापसः किम् वा तत्त्व-विवेक-पेशल-मतिः योगि-ईश्वरः को ऽपि किम् इत्य् उत्पन्न-विकल्प-जल्प-मुखरैः आभाष्यमाणा जनैः न क्रुद्धाः पथि न एव तुष्ट-मनसः यान्ति स्वयम् योगिनः

Analysis

Word Lemma Parse
चण्डालः चण्डाल pos=n,g=m,c=1,n=s
किम् किम् pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
द्विजातिः द्विजाति pos=n,g=m,c=1,n=s
अथवा अथवा pos=i
शूद्रो शूद्र pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
किम् किम् pos=i
तापसः तापस pos=n,g=m,c=1,n=s
किम् किम् pos=i
वा वा pos=i
तत्त्व तत्त्व pos=n,comp=y
विवेक विवेक pos=n,comp=y
पेशल पेशल pos=a,comp=y
मतिः मति pos=n,g=m,c=1,n=s
योगि योगिन् pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
को pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
किम् किम् pos=i
इत्य् इति pos=i
उत्पन्न उत्पद् pos=va,comp=y,f=part
विकल्प विकल्प pos=n,comp=y
जल्प जल्प pos=n,comp=y
मुखरैः मुखर pos=a,g=m,c=3,n=p
आभाष्यमाणा आभाष् pos=va,g=m,c=1,n=p,f=part
जनैः जन pos=n,g=m,c=3,n=p
pos=i
क्रुद्धाः क्रुध् pos=va,g=m,c=1,n=p,f=part
पथि पथिन् pos=n,g=,c=7,n=s
pos=i
एव एव pos=i
तुष्ट तुष् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
यान्ति या pos=v,p=3,n=p,l=lat
स्वयम् स्वयम् pos=i
योगिनः योगिन् pos=n,g=m,c=1,n=p