Original

निवृत्ता भोगेच्छा पुरुषबहुमानो ऽपि गलितःसमानाः स्वर्याताः सपदि सुहृदो जीवितसमाः ।शनैर् यष्ट्य् उत्थानं घनतिमिररुद्धे च नयनेअहो मूढः कायस् तद् अपि मरणापायचकितः ॥ ९ ॥

Segmented

निवृत्ता भोग-इच्छा पुरुष-बहु-मानः ऽपि गलितः समानाः स्वर्याताः सपदि सुहृदो जीवित-समाः शनैः यष्टि-उत्थानम् घन-तिमिर-रुद्धे च नयने अहो मूढः कायस् तद् अपि मरण-अपाय-चकितः

Analysis

Word Lemma Parse
निवृत्ता निवृत् pos=va,g=f,c=1,n=s,f=part
भोग भोग pos=n,comp=y
इच्छा इच्छा pos=n,g=f,c=1,n=s
पुरुष पुरुष pos=n,comp=y
बहु बहु pos=a,comp=y
मानः मान pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
गलितः गल् pos=va,g=m,c=1,n=s,f=part
समानाः समान pos=a,g=m,c=1,n=p
स्वर्याताः स्वर्यात pos=a,g=m,c=1,n=p
सपदि सपदि pos=i
सुहृदो सुहृद् pos=n,g=m,c=1,n=p
जीवित जीवित pos=n,comp=y
समाः सम pos=n,g=m,c=1,n=p
शनैः शनैस् pos=i
यष्टि यष्टि pos=n,comp=y
उत्थानम् उत्थान pos=n,g=n,c=1,n=s
घन घन pos=a,comp=y
तिमिर तिमिर pos=n,comp=y
रुद्धे रुध् pos=va,g=n,c=1,n=d,f=part
pos=i
नयने नयन pos=n,g=n,c=1,n=d
अहो अहर् pos=n,g=n,c=2,n=s
मूढः मुह् pos=va,g=m,c=1,n=s,f=part
कायस् काय pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
अपि अपि pos=i
मरण मरण pos=n,comp=y
अपाय अपाय pos=n,comp=y
चकितः चक् pos=va,g=m,c=1,n=s,f=part