Original

नमस्यामो देवान् ननु हतविधेस् ते ऽपि वशगाविधिर् वन्द्यः सो ऽपि प्रतिनियतकर्मैकफलदः ।फलं कर्मायत्तं यदि किम् अमरैः किं च विधिनानमस् तत्कर्मभ्यो विधिर् अपि न येभ्यः प्रभवति ॥ ९४ ॥

Segmented

नमस्यामो देवान् ननु हत-विधेः ते ऽपि वशगा विधिः वन्द्यः सो ऽपि प्रतिनियत-कर्म-एक-फल-दः फलम् कर्म-आयत्तम् यदि किम् अमरैः किम् च विधिना नमस् तद्-कर्मन् विधिः अपि न येभ्यः प्रभवति

Analysis

Word Lemma Parse
नमस्यामो नमस्य् pos=v,p=1,n=p,l=lat
देवान् देव pos=n,g=m,c=2,n=p
ननु ननु pos=i
हत हन् pos=va,comp=y,f=part
विधेः विधि pos=n,g=m,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
वशगा वशग pos=a,g=m,c=1,n=p
विधिः विधि pos=n,g=m,c=1,n=s
वन्द्यः वन्द् pos=va,g=m,c=1,n=s,f=krtya
सो तद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
प्रतिनियत प्रतिनियम् pos=va,comp=y,f=part
कर्म कर्मन् pos=n,comp=y
एक एक pos=n,comp=y
फल फल pos=n,comp=y
दः pos=a,g=m,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,comp=y
आयत्तम् आयत् pos=va,g=n,c=1,n=s,f=part
यदि यदि pos=i
किम् pos=n,g=n,c=1,n=s
अमरैः अमर pos=n,g=m,c=3,n=p
किम् pos=n,g=n,c=1,n=s
pos=i
विधिना विधि pos=n,g=m,c=3,n=s
नमस् नमस् pos=n,g=n,c=1,n=s
तद् तद् pos=n,comp=y
कर्मन् कर्मन् pos=n,g=n,c=4,n=p
विधिः विधि pos=n,g=m,c=1,n=s
अपि अपि pos=i
pos=i
येभ्यः यद् pos=n,g=n,c=5,n=p
प्रभवति प्रभू pos=v,p=3,n=s,l=lat