Original

भग्नाशस्य करण्डपिण्डिततनोर् म्लानेन्द्रियस्य क्षुधाकृत्वाखुर् विवरं स्वयं निपतितो नक्तं मुखे भोगिनः ।तृप्तस् तत्पिशितेन सत्वरम् असौ तेनैव यातः यथालोकाः पश्यत दैवम् एव हि नृणां वृद्धौ क्षये कारणम् ॥ ८५ ॥

Segmented

भग्न-आशस्य करण्ड-पिण्डित-तनोः म्लान-इन्द्रियस्य क्षुधा कृत्वा आखुः विवरम् स्वयम् निपतितो नक्तम् मुखे भोगिनः तृप्तस् तद्-पिशितेन स त्वरम् असौ तेन एव यातः यथा लोकाः पश्यत दैवम् एव हि नृणाम् वृद्धौ क्षये कारणम्

Analysis

Word Lemma Parse
भग्न भञ्ज् pos=va,comp=y,f=part
आशस्य आशा pos=n,g=m,c=6,n=s
करण्ड करण्ड pos=n,comp=y
पिण्डित पिण्डय् pos=va,comp=y,f=part
तनोः तनु pos=n,g=m,c=6,n=s
म्लान म्ला pos=va,comp=y,f=part
इन्द्रियस्य इन्द्रिय pos=n,g=m,c=6,n=s
क्षुधा क्षुध् pos=n,g=f,c=3,n=s
कृत्वा कृ pos=vi
आखुः आखु pos=n,g=m,c=1,n=s
विवरम् विवर pos=n,g=n,c=2,n=s
स्वयम् स्वयम् pos=i
निपतितो निपत् pos=va,g=m,c=1,n=s,f=part
नक्तम् नक्त pos=n,g=n,c=2,n=s
मुखे मुख pos=n,g=n,c=7,n=s
भोगिनः भोगिन् pos=n,g=m,c=6,n=s
तृप्तस् तृप् pos=va,g=m,c=1,n=s,f=part
तद् तद् pos=n,comp=y
पिशितेन पिशित pos=n,g=n,c=3,n=s
pos=i
त्वरम् त्वरा pos=n,g=n,c=2,n=s
असौ अदस् pos=n,g=m,c=1,n=s
तेन तेन pos=i
एव एव pos=i
यातः या pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
लोकाः लोक pos=n,g=m,c=8,n=p
पश्यत पश् pos=v,p=2,n=p,l=lot
दैवम् दैव pos=n,g=n,c=1,n=s
एव एव pos=i
हि हि pos=i
नृणाम् नृ pos=n,g=,c=6,n=p
वृद्धौ वृद्धि pos=n,g=f,c=7,n=s
क्षये क्षय pos=n,g=m,c=7,n=s
कारणम् कारण pos=n,g=n,c=1,n=s