Original

मनसि वचसि काये पुण्यपीयूषपूर्णास्त्रिभुवनम् उपकारश्रेणिभिः प्रीणयन्तः ।परगुणपरमाणून् पर्वतीकृत्य नित्यंनिजहृदि विकसन्तः सन्त सन्तः कियन्तः ॥ ७९ ॥

Segmented

मनसि वचसि काये पुण्य-पीयूष-पूर्णाः त्रिभुवनम् उपकार-श्रेणि प्रीणयन्तः पर-गुण-परमाणून् पर्वतीकृत्य नित्यम् निज-हृदि विकसन्तः सन्तः सन्तः कियन्तः

Analysis

Word Lemma Parse
मनसि मनस् pos=n,g=n,c=7,n=s
वचसि वचस् pos=n,g=n,c=7,n=s
काये काय pos=n,g=m,c=7,n=s
पुण्य पुण्य pos=a,comp=y
पीयूष पीयूष pos=n,comp=y
पूर्णाः पृ pos=va,g=m,c=1,n=p,f=part
त्रिभुवनम् त्रिभुवन pos=n,g=n,c=2,n=s
उपकार उपकार pos=n,comp=y
श्रेणि श्रेणि pos=n,g=m,c=3,n=p
प्रीणयन्तः प्रीणय् pos=va,g=m,c=1,n=p,f=part
पर पर pos=n,comp=y
गुण गुण pos=n,comp=y
परमाणून् परमाणु pos=n,g=m,c=2,n=p
पर्वतीकृत्य पर्वतीकृ pos=vi
नित्यम् नित्यम् pos=i
निज निज pos=a,comp=y
हृदि हृद् pos=n,g=n,c=7,n=s
विकसन्तः विकस् pos=va,g=m,c=1,n=p,f=part
सन्तः अस् pos=va,g=m,c=1,n=p,f=part
सन्तः सत् pos=a,g=m,c=1,n=p
कियन्तः कियत् pos=a,g=m,c=1,n=p