Original

इतः स्वपिति केशवः कुलम् इतस् तदीयद्विषाम्इतश् च शरणार्थिनां शिखरिणां गणाः शेरते ।इतो ऽपि बडवानलः सह समस्तसंवर्तकैऋअहो विततम् ऊर्जितं भरसहं सिन्धोर् वपुः ॥ ७७ ॥

Segmented

इतः स्वपिति केशवः कुलम् इतस् तदीय-द्विषाम् इतः च शरण-अर्थिन् शिखरिणाम् गणाः शेरते इतो ऽपि बडवानलः सह समस्त-संवर्तकैः अहो विततम् ऊर्जितम् भर-सहम् सिन्धोः वपुः

Analysis

Word Lemma Parse
इतः इतस् pos=i
स्वपिति स्वप् pos=v,p=3,n=s,l=lat
केशवः केशव pos=n,g=m,c=1,n=s
कुलम् कुल pos=n,g=n,c=1,n=s
इतस् इतस् pos=i
तदीय तदीय pos=a,comp=y
द्विषाम् द्विष् pos=a,g=m,c=6,n=p
इतः इतस् pos=i
pos=i
शरण शरण pos=n,comp=y
अर्थिन् अर्थिन् pos=a,g=m,c=6,n=p
शिखरिणाम् शिखरिन् pos=n,g=m,c=6,n=p
गणाः गण pos=n,g=m,c=1,n=p
शेरते शी pos=v,p=3,n=p,l=lat
इतो इतस् pos=i
ऽपि अपि pos=i
बडवानलः वडवानल pos=n,g=m,c=1,n=s
सह सह pos=i
समस्त समस्त pos=a,comp=y
संवर्तकैः संवर्तक pos=n,g=m,c=3,n=p
अहो अहो pos=i
विततम् वितन् pos=va,g=n,c=1,n=s,f=part
ऊर्जितम् ऊर्जय् pos=va,g=n,c=1,n=s,f=part
भर भर pos=n,comp=y
सहम् सह pos=a,g=n,c=1,n=s
सिन्धोः सिन्धु pos=n,g=m,c=6,n=s
वपुः वपुस् pos=n,g=n,c=1,n=s