Original

भवन्ति नम्रास् तरवः फलोद्गमैर्नवाम्बुभिर् दूरावलम्बिनो घनाः ।अनुद्धताः सत्पुरुषाः समृद्धिभिःस्वभाव एष परोपकारिणाम् ॥ ७१ ॥

Segmented

भवन्ति नम्रास् तरवः फल-उद्गमैः नव-अम्बुभिः दूर-अवलम्बिनः घनाः अनुद्धताः सत्-पुरुषाः समृद्धिभिः स्वभाव एष पर-उपकारिणाम्

Analysis

Word Lemma Parse
भवन्ति भू pos=v,p=3,n=p,l=lat
नम्रास् नम्र pos=a,g=m,c=1,n=p
तरवः तरु pos=n,g=m,c=1,n=p
फल फल pos=n,comp=y
उद्गमैः उद्गम pos=n,g=m,c=3,n=p
नव नव pos=a,comp=y
अम्बुभिः अम्बु pos=n,g=n,c=3,n=p
दूर दूर pos=a,comp=y
अवलम्बिनः अवलम्बिन् pos=a,g=m,c=1,n=p
घनाः घन pos=n,g=m,c=1,n=p
अनुद्धताः अनुद्धत pos=a,g=m,c=1,n=p
सत् सत् pos=a,comp=y
पुरुषाः पुरुष pos=n,g=m,c=1,n=p
समृद्धिभिः समृद्धि pos=n,g=f,c=3,n=p
स्वभाव स्वभाव pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
उपकारिणाम् उपकारिन् pos=a,g=m,c=6,n=p