Original

सन्तप्तायसि संस्थितस्य पयसो नामापि न ज्ञायतेमुक्ताकारतया तद् एव नलिनीपत्रस्थितं राजते ।स्वात्यां सागरशुक्तिमध्यपतितं तन्मौक्तिकं जायतेप्रायेणाधममध्यमोत्तमगुणः संसर्गतो जायते ॥ ६७ ॥

Segmented

संतप्त-अयसि संस्थितस्य पयसो नाम अपि न ज्ञायते मुक्त-आकार-तया तद् एव नलिनी-पत्त्र-स्थितम् राजते स्वात्याम् सागर-शुक्ति-मध्य-पतितम् तत् मौक्तिकम् जायते प्रायेण अधम-मध्यम-उत्तम-गुणः संसर्गतो जायते

Analysis

Word Lemma Parse
संतप्त संतप् pos=va,comp=y,f=part
अयसि अयस् pos=n,g=n,c=7,n=s
संस्थितस्य संस्था pos=va,g=n,c=6,n=s,f=part
पयसो पयस् pos=n,g=n,c=6,n=s
नाम नामन् pos=n,g=n,c=1,n=s
अपि अपि pos=i
pos=i
ज्ञायते ज्ञा pos=v,p=3,n=s,l=lat
मुक्त मुच् pos=va,comp=y,f=part
आकार आकार pos=n,comp=y
तया ता pos=n,g=f,c=3,n=s
तद् तद् pos=n,g=n,c=1,n=s
एव एव pos=i
नलिनी नलिनी pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
स्थितम् स्था pos=va,g=n,c=1,n=s,f=part
राजते राज् pos=v,p=3,n=s,l=lat
स्वात्याम् स्वाति pos=n,g=f,c=7,n=s
सागर सागर pos=n,comp=y
शुक्ति शुक्ति pos=n,comp=y
मध्य मध्य pos=n,comp=y
पतितम् पत् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
मौक्तिकम् मौक्तिक pos=n,g=n,c=1,n=s
जायते जन् pos=v,p=3,n=s,l=lat
प्रायेण प्रायेण pos=i
अधम अधम pos=a,comp=y
मध्यम मध्यम pos=a,comp=y
उत्तम उत्तम pos=a,comp=y
गुणः गुण pos=n,g=m,c=1,n=s
संसर्गतो संसर्ग pos=n,g=m,c=5,n=s
जायते जन् pos=v,p=3,n=s,l=lat