Original

रे रे चातक सावधानमनसा मित्र क्षणं श्रूयताम्अम्भोदा बहवो वसन्ति गगने सर्वे ऽपि नैतादृशाः ।केचिद् वृष्टिभिर् आर्द्रयन्ति वसुधां गर्जन्ति केचिद् वृथायं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः ॥ ५१ ॥

Segmented

रे रे चातक स अवधान-मनसा मित्र क्षणम् श्रूयताम् अम्भोदा बहवो वसन्ति गगने सर्वे ऽपि न एतादृशाः केचिद् वृष्टिभिः आर्द्रयन्ति वसुधाम् गर्जन्ति केचिद् वृथा यम् यम् पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनम् वचः

Analysis

Word Lemma Parse
रे रे pos=i
रे रे pos=i
चातक चातक pos=n,g=m,c=8,n=s
pos=i
अवधान अवधान pos=n,comp=y
मनसा मनस् pos=n,g=n,c=3,n=s
मित्र मित्र pos=n,g=m,c=8,n=s
क्षणम् क्षण pos=n,g=m,c=2,n=s
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
अम्भोदा अम्भोद pos=n,g=m,c=1,n=p
बहवो बहु pos=a,g=m,c=1,n=p
वसन्ति वस् pos=v,p=3,n=p,l=lat
गगने गगन pos=n,g=n,c=7,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
pos=i
एतादृशाः एतादृश pos=a,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
वृष्टिभिः वृष्टि pos=n,g=f,c=3,n=p
आर्द्रयन्ति आर्द्रय् pos=v,p=3,n=p,l=lat
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
गर्जन्ति गर्ज् pos=v,p=3,n=p,l=lat
केचिद् कश्चित् pos=n,g=m,c=1,n=p
वृथा वृथा pos=i
यम् यद् pos=n,g=m,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
पश्यसि पश् pos=v,p=2,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पुरतो पुरतस् pos=i
मा मा pos=i
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
दीनम् दीन pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s