Original

स्वल्पस्नायुवसावशेषमलिनं निर्मांसम् अप्य् अस्थि गोःश्वा लब्ध्वा परितोषम् एति न तु तत् तस्य क्षुधाशान्तये ।सिंहो जम्बुकम् अङ्कम् आगतम् अपि त्यक्त्वा निहन्ति द्विपंसर्वः कृच्छ्रगतो ऽपि वाञ्छन्ति जनः सत्त्वानुरूपं फलम् ॥ ३० ॥

Segmented

सु अल्प-स्नायु-वसा-अवशेष-मलिनम् निर्मांसम् अपि अस्थि गोः श्वा लब्ध्वा परितोषम् एति न तु तत् तस्य क्षुधा-शान्त्यै सिंहो जम्बुकम् अङ्कम् आगतम् अपि त्यक्त्वा निहन्ति द्विपम् सर्वः कृच्छ्र-गतः ऽपि वाञ्छति जनः सत्त्व-अनुरूपम् फलम्

Analysis

Word Lemma Parse
सु सु pos=i
अल्प अल्प pos=a,comp=y
स्नायु स्नायु pos=n,comp=y
वसा वसा pos=n,comp=y
अवशेष अवशेष pos=n,comp=y
मलिनम् मलिन pos=a,g=n,c=2,n=s
निर्मांसम् निर्मांस pos=a,g=n,c=2,n=s
अपि अपि pos=i
अस्थि अस्थि pos=n,g=n,c=2,n=s
गोः गो pos=n,g=,c=6,n=s
श्वा श्वन् pos=n,g=m,c=1,n=s
लब्ध्वा लभ् pos=vi
परितोषम् परितोष pos=n,g=m,c=2,n=s
एति pos=v,p=3,n=s,l=lat
pos=i
तु तु pos=i
तत् तद् pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
क्षुधा क्षुधा pos=n,comp=y
शान्त्यै शान्ति pos=n,g=f,c=4,n=s
सिंहो सिंह pos=n,g=m,c=1,n=s
जम्बुकम् जम्बुक pos=n,g=m,c=2,n=s
अङ्कम् अङ्क pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
अपि अपि pos=i
त्यक्त्वा त्यज् pos=vi
निहन्ति निहन् pos=v,p=3,n=s,l=lat
द्विपम् द्विप pos=n,g=m,c=2,n=s
सर्वः सर्व pos=n,g=m,c=1,n=s
कृच्छ्र कृच्छ्र pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
वाञ्छति वाञ्छ् pos=v,p=3,n=s,l=lat
जनः जन pos=n,g=m,c=1,n=s
सत्त्व सत्त्व pos=n,comp=y
अनुरूपम् अनुरूप pos=a,g=n,c=2,n=s
फलम् फल pos=n,g=n,c=2,n=s