Original

क्षुत्क्षामो ऽपि जराकृशो ऽपि शिथिलप्राणो ऽपि कष्टां दशाम्आपन्नो ऽपि विपन्नदीधितिर् इति प्राणेषु नश्यत्स्व् अपि ।मत्तेभेन्द्रविभिन्नकुम्भपिशितग्रासैकबद्धस्पृहःकिं जीर्णं तृणम् अत्ति मानमहताम् अग्रेसरः केसरी ॥ २९ ॥

Segmented

क्षुध्-क्षामः ऽपि जरा-कृशः ऽपि शिथिल-प्राणः ऽपि कष्टाम् दशाम् आपन्नः ऽपि विपन्न-दीधितिः इति प्राणेषु नश्यत्स्व् अपि मत्त-इभ-इन्द्र-विभिद्-कुम्भ-पिशित-ग्रास-एक-बद्ध-स्पृहः किम् जीर्णम् तृणम् अत्ति मान-महताम् अग्रेसरः केसरी

Analysis

Word Lemma Parse
क्षुध् क्षुध् pos=n,comp=y
क्षामः क्षाम pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
जरा जरा pos=n,comp=y
कृशः कृश pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
शिथिल शिथिल pos=a,comp=y
प्राणः प्राण pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
कष्टाम् कष्ट pos=a,g=f,c=2,n=s
दशाम् दशा pos=n,g=f,c=2,n=s
आपन्नः आपद् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
विपन्न विपद् pos=va,comp=y,f=part
दीधितिः दीधिति pos=n,g=m,c=1,n=s
इति इति pos=i
प्राणेषु प्राण pos=n,g=m,c=7,n=p
नश्यत्स्व् नश् pos=va,g=m,c=7,n=p,f=part
अपि अपि pos=i
मत्त मद् pos=va,comp=y,f=part
इभ इभ pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
विभिद् विभिद् pos=va,comp=y,f=part
कुम्भ कुम्भ pos=n,comp=y
पिशित पिशित pos=n,comp=y
ग्रास ग्रास pos=n,comp=y
एक एक pos=n,comp=y
बद्ध बन्ध् pos=va,comp=y,f=part
स्पृहः स्पृहा pos=n,g=m,c=1,n=s
किम् किम् pos=i
जीर्णम् जृ pos=va,g=n,c=2,n=s,f=part
तृणम् तृण pos=n,g=n,c=2,n=s
अत्ति अद् pos=v,p=3,n=s,l=lat
मान मान pos=n,comp=y
महताम् महत् pos=a,g=m,c=6,n=p
अग्रेसरः अग्रेसर pos=a,g=m,c=1,n=s
केसरी केसरिन् pos=n,g=m,c=1,n=s