Original

शास्त्रोपस्कृतशब्दसुन्दरगिरः शिष्यप्रदेयागमाविख्याताः कवयो वसन्ति विषये यस्य प्रभोर् निर्धनाः ।तज्जाड्यं वसुधादिपस्य कवयस् त्व् अर्थं विनापीश्वराःकुत्स्याः स्युः कुपरीक्षका हि मणयो यैर् अर्घतः पातिताः ॥ १५ ॥

Segmented

शास्त्र-उपस्कृ-शब्द-सुन्दर-गिरः शिष्य-प्रदा-आगमाः विख्याताः कवयो वसन्ति विषये यस्य प्रभोः निर्धनाः तद्-जाड्यम् वसुधाधिपस्य कवयस् तु अर्थम् विना अपि ईश्वराः कुत्स्याः स्युः कु परीक्षकाः हि मणयो यैः अर्घतः पातिताः

Analysis

Word Lemma Parse
शास्त्र शास्त्र pos=n,comp=y
उपस्कृ उपस्कृ pos=va,comp=y,f=part
शब्द शब्द pos=n,comp=y
सुन्दर सुन्दर pos=a,comp=y
गिरः गिर् pos=n,g=m,c=1,n=p
शिष्य शिष्य pos=n,comp=y
प्रदा प्रदा pos=va,comp=y,f=krtya
आगमाः आगम pos=n,g=m,c=1,n=p
विख्याताः विख्या pos=va,g=m,c=1,n=p,f=part
कवयो कवि pos=n,g=m,c=1,n=p
वसन्ति वस् pos=v,p=3,n=p,l=lat
विषये विषय pos=n,g=m,c=7,n=s
यस्य यद् pos=n,g=m,c=6,n=s
प्रभोः प्रभु pos=n,g=m,c=6,n=s
निर्धनाः निर्धन pos=a,g=m,c=1,n=p
तद् तद् pos=n,comp=y
जाड्यम् जाड्य pos=n,g=n,c=2,n=s
वसुधाधिपस्य वसुधाधिप pos=n,g=m,c=6,n=s
कवयस् कवि pos=n,g=m,c=1,n=p
तु तु pos=i
अर्थम् अर्थ pos=n,g=m,c=2,n=s
विना विना pos=i
अपि अपि pos=i
ईश्वराः ईश्वर pos=n,g=m,c=1,n=p
कुत्स्याः कुत्सय् pos=va,g=m,c=1,n=p,f=krtya
स्युः अस् pos=v,p=3,n=p,l=vidhilin
कु कु pos=i
परीक्षकाः परीक्षक pos=a,g=m,c=1,n=p
हि हि pos=i
मणयो मणि pos=n,g=m,c=1,n=p
यैः यद् pos=n,g=m,c=3,n=p
अर्घतः अर्घ pos=n,g=m,c=5,n=s
पातिताः पातय् pos=va,g=m,c=1,n=p,f=part