Original

मज्जत्व् अम्भसि यातु मेरुशिखरं शत्रुं जयत्व् आहवेवाणिज्यं कृषिसेवने च सकला विद्याः कलाः शिक्षताम् ।आकाशं विपुलं प्रयातु खगवत् कृत्वा प्रयत्नं परंनाभाव्यं भवतीह कर्मवशतो भाव्यस्य नाशः कुतः ॥ १०१ ॥

Segmented

मज्जत्व् अम्भसि यातु मेरु-शिखरम् शत्रुम् जयतु आहवे वाणिज्यम् कृषि-सेवने च सकला विद्याः कलाः शिक्षताम् आकाशम् विपुलम् प्रयातु खग-वत् कृत्वा प्रयत्नम् परम् न अ भवितव्यम् भवति इह कर्म-वशात् भाव्यस्य नाशः कुतः

Analysis

Word Lemma Parse
मज्जत्व् मज्ज् pos=v,p=3,n=s,l=lot
अम्भसि अम्भस् pos=n,g=n,c=7,n=s
यातु या pos=v,p=3,n=s,l=lot
मेरु मेरु pos=n,comp=y
शिखरम् शिखर pos=n,g=n,c=2,n=s
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
जयतु जि pos=v,p=3,n=s,l=lot
आहवे आहव pos=n,g=m,c=7,n=s
वाणिज्यम् वाणिज्य pos=n,g=n,c=2,n=s
कृषि कृषि pos=n,comp=y
सेवने सेवन pos=n,g=n,c=2,n=d
pos=i
सकला सकल pos=a,g=f,c=2,n=p
विद्याः विद्या pos=n,g=f,c=2,n=p
कलाः कला pos=n,g=f,c=2,n=p
शिक्षताम् शिक्ष् pos=v,p=3,n=s,l=lot
आकाशम् आकाश pos=n,g=n,c=2,n=s
विपुलम् विपुल pos=a,g=n,c=2,n=s
प्रयातु प्रया pos=v,p=3,n=s,l=lot
खग खग pos=n,comp=y
वत् वत् pos=i
कृत्वा कृ pos=vi
प्रयत्नम् प्रयत्न pos=n,g=m,c=2,n=s
परम् पर pos=n,g=m,c=2,n=s
pos=i
pos=i
भवितव्यम् भू pos=va,g=n,c=1,n=s,f=krtya
भवति भू pos=v,p=3,n=s,l=lat
इह इह pos=i
कर्म कर्मन् pos=n,comp=y
वशात् वश pos=n,g=m,c=5,n=s
भाव्यस्य भू pos=va,g=n,c=6,n=s,f=krtya
नाशः नाश pos=n,g=m,c=1,n=s
कुतः कुतस् pos=i