Original

यथा घटं मृन्मयम् आमम् आश्रितो नरस् तितीर्षेत् क्षुभितं महार्णवम् ।समुच्छ्रयं तद्वद् असारम् उद्वहन् बलं व्यवस्येद् विषयार्थम् उद्यतः ॥ १० ॥

Segmented

यथा घटम् मृद्-मयम् आमम् आश्रितः नरः तितीर्षेत् क्षुभितम् महा-अर्णवम् समुच्छ्रयम् तद्वत् असारम् उद्वहन् बलम् व्यवस्येद् विषय-अर्थम् उद्यतः

Analysis

Word Lemma Parse
यथा यथा pos=i
घटम् घट pos=n,g=m,c=2,n=s
मृद् मृद् pos=n,comp=y
मयम् मय pos=a,g=m,c=2,n=s
आमम् आम pos=a,g=m,c=2,n=s
आश्रितः आश्रि pos=va,g=m,c=1,n=s,f=part
नरः नर pos=n,g=m,c=1,n=s
तितीर्षेत् तितीर्ष् pos=v,p=3,n=s,l=vidhilin
क्षुभितम् क्षुभ् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
अर्णवम् अर्णव pos=n,g=m,c=2,n=s
समुच्छ्रयम् समुच्छ्रय pos=n,g=m,c=2,n=s
तद्वत् तद्वत् pos=i
असारम् असार pos=a,g=m,c=2,n=s
उद्वहन् उद्वह् pos=va,g=m,c=1,n=s,f=part
बलम् बल pos=n,g=n,c=2,n=s
व्यवस्येद् व्यवसा pos=v,p=3,n=s,l=vidhilin
विषय विषय pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उद्यतः उद्यम् pos=va,g=m,c=1,n=s,f=part