Original

नप्ता शशाङ्कस्य यशोगुणाङ्को बुधस्य सूनुर् विभुधप्रभावः ।तथोर्वशीम् अप्सरसं विचिन्त्य राजर्षिर् उन्मादम् अगच्छद् ऐडः ॥ ३८ ॥

Segmented

नप्ता शशाङ्कस्य यशः-गुण-अङ्कः बुधस्य सूनुः विबुध-प्रभावः तथा उर्वशीम् अप्सरसम् विचिन्त्य राज-ऋषिः उन्मादम् अगच्छद् ऐडः

Analysis

Word Lemma Parse
नप्ता नप्तृ pos=n,g=m,c=1,n=s
शशाङ्कस्य शशाङ्क pos=n,g=m,c=6,n=s
यशः यशस् pos=n,comp=y
गुण गुण pos=n,comp=y
अङ्कः अङ्क pos=n,g=m,c=1,n=s
बुधस्य बुध pos=n,g=m,c=6,n=s
सूनुः सूनु pos=n,g=m,c=1,n=s
विबुध विबुध pos=n,comp=y
प्रभावः प्रभाव pos=n,g=m,c=1,n=s
तथा तथा pos=i
उर्वशीम् उर्वशी pos=n,g=f,c=2,n=s
अप्सरसम् अप्सरस् pos=n,g=f,c=2,n=s
विचिन्त्य विचिन्तय् pos=vi
राज राजन् pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
उन्मादम् उन्माद pos=n,g=m,c=2,n=s
अगच्छद् गम् pos=v,p=3,n=s,l=lan
ऐडः ऐड pos=n,g=m,c=1,n=s