Original

प्रायेण मोक्षाय विनिःसृतानां शाक्यर्षभाणां विदिताः स्त्रियस् ते ।तपोवनानीव गृहाणि यासां साध्वीव्रतं कामवदास्रितानाम् ॥ ४० ॥

Segmented

प्रायेण मोक्षाय विनिःसृतानाम् शाक्य-ऋषभाणाम् विदिताः स्त्रियः ते तपोवनानि इव गृहाणि यासाम् साध्वी-व्रतम् कामवत्-आश्रितानाम्

Analysis

Word Lemma Parse
प्रायेण प्रायेण pos=i
मोक्षाय मोक्ष pos=n,g=m,c=4,n=s
विनिःसृतानाम् विनिःसृ pos=va,g=m,c=6,n=p,f=part
शाक्य शाक्य pos=n,comp=y
ऋषभाणाम् ऋषभ pos=n,g=m,c=6,n=p
विदिताः विद् pos=va,g=f,c=1,n=p,f=part
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
तपोवनानि तपोवन pos=n,g=n,c=1,n=p
इव इव pos=i
गृहाणि गृह pos=n,g=n,c=1,n=p
यासाम् यद् pos=n,g=f,c=6,n=p
साध्वी साध्वी pos=n,comp=y
व्रतम् व्रत pos=n,g=n,c=1,n=s
कामवत् कामवत् pos=a,comp=y
आश्रितानाम् आश्रि pos=va,g=f,c=6,n=p,f=part