Original

आर्यस्य साधोः करुणात्मकस्य मन्नित्यभीरोर् अतिदक्षिणस्य ।कुतो विकारोऽयम् अभूतपूर्वः स्वेनापरागेण ममापचारात् ॥ १४ ॥

Segmented

आर्यस्य साधोः करुणा-आत्मकस्य मद्-नित्य-भीरोः अति दक्षिणस्य कुतो विकारो अयम् अभूत-पूर्वः स्वेन अपरागेण मम अपचारात्

Analysis

Word Lemma Parse
आर्यस्य आर्य pos=a,g=m,c=6,n=s
साधोः साधु pos=a,g=m,c=6,n=s
करुणा करुणा pos=n,comp=y
आत्मकस्य आत्मक pos=a,g=m,c=6,n=s
मद् मद् pos=n,comp=y
नित्य नित्य pos=a,comp=y
भीरोः भीरु pos=a,g=m,c=6,n=s
अति अति pos=i
दक्षिणस्य दक्षिण pos=a,g=m,c=6,n=s
कुतो कुतस् pos=i
विकारो विकार pos=n,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
अभूत अभूत pos=a,comp=y
पूर्वः पूर्व pos=n,g=m,c=1,n=s
स्वेन स्व pos=a,g=m,c=3,n=s
अपरागेण अपराग pos=n,g=m,c=3,n=s
मम मद् pos=n,g=,c=6,n=s
अपचारात् अपचार pos=n,g=m,c=5,n=s