Original

दत्त्वाथ सा दर्पणम् अस्य हस्ते ममाग्रतो धारय तावद् एनम् ।विशेषकं यावद् अहं करोमीत्य् उवाच कान्तं स च तं बभार ॥ १३ ॥

Segmented

दत्त्वा अथ सा दर्पणम् अस्य हस्ते मम अग्रतस् धारय तावत् एनम् विशेषकम् यावत् अहम् करोमि इति उवाच कान्तम् स च तम् बभार

Analysis

Word Lemma Parse
दत्त्वा दा pos=vi
अथ अथ pos=i
सा तद् pos=n,g=f,c=1,n=s
दर्पणम् दर्पण pos=n,g=m,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
हस्ते हस्त pos=n,g=m,c=7,n=s
मम मद् pos=n,g=,c=6,n=s
अग्रतस् अग्रतस् pos=i
धारय धारय् pos=v,p=2,n=s,l=lot
तावत् तावत् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
विशेषकम् विशेषक pos=n,g=m,c=2,n=s
यावत् यावत् pos=i
अहम् मद् pos=n,g=,c=1,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
इति इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
कान्तम् कान्त pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s
बभार भृ pos=v,p=3,n=s,l=lit