Original

भावानुरक्तौ गिरिनिर्झरस्थौ तौ किंनरीकिंपुरुषाव् इवोभौ ।चिक्रीडतुश् चाभिविरेजतुश् च रूपश्रियान्योन्यम् इवाक्षिपन्तौ ॥ १० ॥

Segmented

भाव-अनुरक्तौ गिरि-निर्झर-स्थौ तौ किन्नरी-किंपुरुषौ इव उभौ चिक्रीडतुः च अभिविरेजतुः च रूप-श्रिया अन्योन्यम् इव आक्षिपन्तौ

Analysis

Word Lemma Parse
भाव भाव pos=n,comp=y
अनुरक्तौ अनुरञ्ज् pos=va,g=m,c=1,n=d,f=part
गिरि गिरि pos=n,comp=y
निर्झर निर्झर pos=n,comp=y
स्थौ स्थ pos=a,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
किन्नरी किंनरी pos=n,comp=y
किंपुरुषौ किम्पुरुष pos=n,g=m,c=1,n=d
इव इव pos=i
उभौ उभ् pos=n,g=m,c=1,n=d
चिक्रीडतुः क्रीड् pos=v,p=3,n=d,l=lit
pos=i
अभिविरेजतुः अभिविराज् pos=v,p=3,n=d,l=lit
pos=i
रूप रूप pos=n,comp=y
श्रिया श्री pos=n,g=f,c=3,n=s
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
इव इव pos=i
आक्षिपन्तौ आक्षिप् pos=va,g=m,c=1,n=d,f=part