Original

इत्य् एषा व्युपशान्तये न रतये मोक्षार्थगर्भा कृतिः श्रोतॄणां ग्रहणार्थम् अन्यमनसां काव्योपचारात् कृता ।यन् मोक्षात् कृतम् अन्यद् अत्र हि मया तत् काव्यधर्मात् कृतं पातुं तिक्तम् इवौषधं मधुयुतं हृद्यं कथं स्याद् इति ॥ ६३ ॥

Segmented

इति एषा व्युपशान्तये न रतये मोक्ष-अर्थ-गर्भा कृतिः श्रोतॄणाम् ग्रहण-अर्थम् अन्य-मनसाम् काव्य-उपचारात् कृता यत् मोक्षात् कृतम् अन्यत् अत्र हि मया तत् काव्य-धर्मात् कृतम् पातुम् तिक्तम् इव औषधम् मधु-युतम् हृद्यम् कथम् स्यात् इति

Analysis

Word Lemma Parse
इति इति pos=i
एषा एतद् pos=n,g=f,c=1,n=s
व्युपशान्तये व्युपशान्ति pos=n,g=f,c=4,n=s
pos=i
रतये रति pos=n,g=f,c=4,n=s
मोक्ष मोक्ष pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
गर्भा गर्भ pos=n,g=f,c=1,n=s
कृतिः कृति pos=n,g=f,c=1,n=s
श्रोतॄणाम् श्रोतृ pos=a,g=m,c=6,n=p
ग्रहण ग्रहण pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अन्य अन्य pos=n,comp=y
मनसाम् मनस् pos=n,g=m,c=6,n=p
काव्य काव्य pos=n,comp=y
उपचारात् उपचार pos=n,g=m,c=5,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
मोक्षात् मोक्ष pos=n,g=m,c=5,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
अन्यत् अन्य pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
हि हि pos=i
मया मद् pos=n,g=,c=3,n=s
तत् तद् pos=n,g=n,c=1,n=s
काव्य काव्य pos=n,comp=y
धर्मात् धर्म pos=n,g=m,c=5,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
पातुम् पा pos=vi
तिक्तम् तिक्त pos=a,g=n,c=1,n=s
इव इव pos=i
औषधम् औषध pos=n,g=n,c=1,n=s
मधु मधु pos=n,comp=y
युतम् युत pos=a,g=n,c=1,n=s
हृद्यम् हृद्य pos=a,g=n,c=1,n=s
कथम् कथम् pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i