Original

इत्य् अर्हतः परमकारुणिकस्य शास्तुर् मूर्ध्ना वचश् च चरणौ च समं गृहीत्वा ।स्वस्थः प्रशान्तहृदयो विनिवृत्तकार्यः पार्श्वान् मुनेः प्रतिययौ विमदः करीव ॥ ६१ ॥

Segmented

इति अर्हतः परम-कारुणिकस्य शास्तुः मूर्ध्ना वचः च चरणौ च समम् गृहीत्वा स्वस्थः प्रशान्त-हृदयः विनिवृत्त-कार्यः पार्श्वात् मुनेः प्रतिययौ विमदः करी इव

Analysis

Word Lemma Parse
इति इति pos=i
अर्हतः अर्हन्त् pos=n,g=m,c=6,n=s
परम परम pos=a,comp=y
कारुणिकस्य कारुणिक pos=a,g=m,c=6,n=s
शास्तुः शास्तृ pos=n,g=m,c=6,n=s
मूर्ध्ना मूर्धन् pos=n,g=m,c=3,n=s
वचः वचस् pos=n,g=n,c=2,n=s
pos=i
चरणौ चरण pos=n,g=m,c=2,n=d
pos=i
समम् समम् pos=i
गृहीत्वा ग्रह् pos=vi
स्वस्थः स्वस्थ pos=a,g=m,c=1,n=s
प्रशान्त प्रशम् pos=va,comp=y,f=part
हृदयः हृदय pos=n,g=m,c=1,n=s
विनिवृत्त विनिवृत् pos=va,comp=y,f=part
कार्यः कार्य pos=n,g=m,c=1,n=s
पार्श्वात् पार्श्व pos=n,g=m,c=5,n=s
मुनेः मुनि pos=n,g=m,c=6,n=s
प्रतिययौ प्रतिया pos=v,p=3,n=s,l=lit
विमदः विमद pos=a,g=m,c=1,n=s
करी करिन् pos=n,g=m,c=1,n=s
इव इव pos=i