Original

ध्रुवं हि संश्रुत्य तव स्थिरं मनो निवृत्तनानाविषयैर् मनोरथैः ।वधूर् गृहे सापि तवानुकुर्वती करिष्यते स्त्रीषु विरागिणीः कथाः ॥ ५९ ॥

Segmented

ध्रुवम् हि संश्रुत्य तव स्थिरम् मनो निवृत्त-नाना विषयैः मनोरथैः वधूः गृहे सा अपि तव अनुकुर्वती करिष्यते स्त्रीषु विरागिणीः कथाः

Analysis

Word Lemma Parse
ध्रुवम् ध्रुवम् pos=i
हि हि pos=i
संश्रुत्य संश्रु pos=vi
तव त्वद् pos=n,g=,c=6,n=s
स्थिरम् स्थिर pos=a,g=n,c=2,n=s
मनो मनस् pos=n,g=n,c=2,n=s
निवृत्त निवृत् pos=va,comp=y,f=part
नाना नाना pos=i
विषयैः विषय pos=n,g=m,c=3,n=p
मनोरथैः मनोरथ pos=n,g=m,c=3,n=p
वधूः वधू pos=n,g=f,c=1,n=s
गृहे गृह pos=n,g=n,c=7,n=s
सा तद् pos=n,g=f,c=1,n=s
अपि अपि pos=i
तव त्वद् pos=n,g=,c=6,n=s
अनुकुर्वती अनुकृ pos=va,g=f,c=1,n=s,f=part
करिष्यते कृ pos=v,p=3,n=s,l=lrt
स्त्रीषु स्त्री pos=n,g=f,c=7,n=p
विरागिणीः विरागिन् pos=a,g=f,c=2,n=p
कथाः कथा pos=n,g=f,c=2,n=p