Original

ततो मुनिस् तस्य निशम्य हेतुमत् प्रहीणसर्वास्रवसूचकं वचः ।इदं बभाषे वदताम् अनुत्तमो यद् अर्हति श्रीघन एव भाषितुम् ॥ ४९ ॥

Segmented

ततो मुनिः तस्य निशम्य हेतुमत् प्रहीण-सर्व-आस्रव-सूचकम् वचः इदम् बभाषे वदताम् अनुत्तमः यत् अर्हति श्रीघन एव भाषितुम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
मुनिः मुनि pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
निशम्य निशामय् pos=vi
हेतुमत् हेतुमत् pos=a,g=n,c=2,n=s
प्रहीण प्रहा pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
आस्रव आस्रव pos=n,comp=y
सूचकम् सूचक pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
बभाषे भाष् pos=v,p=3,n=s,l=lit
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
अनुत्तमः अनुत्तम pos=a,g=m,c=1,n=s
यत् यद् pos=n,g=n,c=2,n=s
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
श्रीघन श्रीघन pos=n,g=m,c=1,n=s
एव एव pos=i
भाषितुम् भाष् pos=vi