Original

द्रष्टुं सुखं ज्ञानसमाप्तिकाले गुरुर् हि शिष्यस्य गुरोश् च शिष्यः ।परिश्रमस् ते सफलो मयीति यतो दिदृक्षास्य मुनौ बभूव ॥ २ ॥

Segmented

द्रष्टुम् सुखम् ज्ञान-समाप्ति-काले गुरुः हि शिष्यस्य गुरोः च शिष्यः परिश्रमः ते सफलो मयि इति यतो दिदृक्षा अस्य मुनौ बभूव

Analysis

Word Lemma Parse
द्रष्टुम् दृश् pos=vi
सुखम् सुख pos=n,g=n,c=2,n=s
ज्ञान ज्ञान pos=n,comp=y
समाप्ति समाप्ति pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
हि हि pos=i
शिष्यस्य शिष्य pos=n,g=m,c=6,n=s
गुरोः गुरु pos=n,g=m,c=6,n=s
pos=i
शिष्यः शिष्य pos=n,g=m,c=1,n=s
परिश्रमः परिश्रम pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सफलो सफल pos=a,g=m,c=1,n=s
मयि मद् pos=n,g=,c=7,n=s
इति इति pos=i
यतो यतस् pos=i
दिदृक्षा दिदृक्षा pos=n,g=f,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
मुनौ मुनि pos=n,g=m,c=7,n=s
बभूव भू pos=v,p=3,n=s,l=lit