Original

यस्मान् निरीहं जगद् अस्वतन्त्रं नैश्वर्यम् एकः कुरुते क्रियासु ।तत् तत् प्रतीत्य प्रभवन्ति भावा निरात्मकं तेन विवेद लोकम् ॥ २१ ॥

Segmented

यस्मात् निरीहम् जगत् अस्वतन्त्रम् न ऐश्वर्यम् एकः कुरुते क्रियासु तत् तत् प्रतीत्य प्रभवन्ति भावा निरात्मकम् तेन विवेद लोकम्

Analysis

Word Lemma Parse
यस्मात् यद् pos=n,g=n,c=5,n=s
निरीहम् निरीह pos=a,g=n,c=1,n=s
जगत् जगन्त् pos=n,g=n,c=1,n=s
अस्वतन्त्रम् अस्वतन्त्र pos=a,g=n,c=1,n=s
pos=i
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=2,n=s
एकः एक pos=n,g=m,c=1,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
क्रियासु क्रिया pos=n,g=f,c=7,n=p
तत् तद् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
प्रतीत्य प्रती pos=vi
प्रभवन्ति प्रभू pos=v,p=3,n=p,l=lat
भावा भाव pos=n,g=m,c=1,n=p
निरात्मकम् निरात्मक pos=a,g=m,c=2,n=s
तेन तद् pos=n,g=n,c=3,n=s
विवेद विद् pos=v,p=3,n=s,l=lit
लोकम् लोक pos=n,g=m,c=2,n=s