Original

व्यपत्रपन्ते हि कुलप्रसूता महःप्रचारैर् अशुभैः प्रवृत्तैः ।कण्ठे मनस्वीव युवा वपुष्मान् अचाक्षुषैर् अप्रयतैर् विषक्तैः ॥ ७६ ॥

Segmented

व्यपत्रपन्ते हि कुल-प्रसूताः मनः-प्रचारैः अशुभैः प्रवृत्तैः कण्ठे मनस्वी इव युवा वपुष्मान् अचाक्षुषैः अप्रयतैः विषक्तैः

Analysis

Word Lemma Parse
व्यपत्रपन्ते व्यपत्रप् pos=v,p=3,n=p,l=lat
हि हि pos=i
कुल कुल pos=n,comp=y
प्रसूताः प्रसू pos=va,g=m,c=1,n=p,f=part
मनः मनस् pos=n,comp=y
प्रचारैः प्रचार pos=n,g=m,c=3,n=p
अशुभैः अशुभ pos=a,g=m,c=3,n=p
प्रवृत्तैः प्रवृत् pos=va,g=m,c=3,n=p,f=part
कण्ठे कण्ठ pos=n,g=m,c=7,n=s
मनस्वी मनस्विन् pos=a,g=m,c=1,n=s
इव इव pos=i
युवा युवन् pos=n,g=m,c=1,n=s
वपुष्मान् वपुष्मत् pos=a,g=m,c=1,n=s
अचाक्षुषैः अचाक्षुष pos=a,g=m,c=3,n=p
अप्रयतैः अप्रयत pos=a,g=m,c=3,n=p
विषक्तैः विषञ्ज् pos=va,g=m,c=3,n=p,f=part