Original

संप्रग्रहस्य प्रशमस्य चैव तथैव काले समुपेक्षणस्य ।सम्यङ्निमित्तं मनसा त्व् अवेक्ष्यं नाशो हि यत्नोऽप्य् अनुपायपूर्वः ॥ ६७ ॥

Segmented

संप्रग्रहस्य प्रशमस्य च एव तथा एव काले समुपेक्षणस्य सम्यङ् निमित्तम् मनसा तु अवेक्ष्यम् नाशो हि यत्नो अपि अन् उपाय-पूर्वः

Analysis

Word Lemma Parse
संप्रग्रहस्य संप्रग्रह pos=n,g=m,c=6,n=s
प्रशमस्य प्रशम pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
तथा तथा pos=i
एव एव pos=i
काले काल pos=n,g=m,c=7,n=s
समुपेक्षणस्य समुपेक्षण pos=n,g=n,c=6,n=s
सम्यङ् सम्यक् pos=i
निमित्तम् निमित्त pos=n,g=n,c=1,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
तु तु pos=i
अवेक्ष्यम् अवेक्ष् pos=va,g=n,c=1,n=s,f=krtya
नाशो नाश pos=n,g=m,c=1,n=s
हि हि pos=i
यत्नो यत्न pos=n,g=m,c=1,n=s
अपि अपि pos=i
अन् अन् pos=i
उपाय उपाय pos=n,comp=y
पूर्वः पूर्व pos=n,g=m,c=1,n=s