Original

मोहानुबद्धे मनसः प्रचारे मैत्राशुभा चैव भवत्य् अयोगः ।ताभ्यां हि संमोहम् उपैति भूयो वाय्वात्मको रूक्षम् इवोपनीय ॥ ६३ ॥

Segmented

मोह-अनुबद्धे मनसः प्रचारे मैत्र-अशुभा वा एव भवति अयोगः ताभ्याम् हि संमोहम् उपैति भूयो वायु-आत्मकः रूक्षम् इव उपनीय

Analysis

Word Lemma Parse
मोह मोह pos=n,comp=y
अनुबद्धे अनुबन्ध् pos=va,g=m,c=7,n=s,f=part
मनसः मनस् pos=n,g=n,c=6,n=s
प्रचारे प्रचार pos=n,g=m,c=7,n=s
मैत्र मैत्र pos=a,comp=y
अशुभा अशुभ pos=a,g=f,c=1,n=s
वा वा pos=i
एव एव pos=i
भवति भू pos=v,p=3,n=s,l=lat
अयोगः अयोग pos=n,g=m,c=1,n=s
ताभ्याम् तद् pos=n,g=f,c=3,n=d
हि हि pos=i
संमोहम् सम्मोह pos=n,g=m,c=2,n=s
उपैति उपे pos=v,p=3,n=s,l=lat
भूयो भूयस् pos=i
वायु वायु pos=n,comp=y
आत्मकः आत्मक pos=a,g=m,c=1,n=s
रूक्षम् रूक्ष pos=a,g=n,c=2,n=s
इव इव pos=i
उपनीय उपनी pos=vi