Original

एवं मनोधारणया क्रमेण व्यपोह्य किं चित् समुपोह्य किं चित् ।ध्यानानि चत्वार्य् अधिगम्य योगी प्राप्नोत्य् अभिज्ञा नियमेन पञ्च ॥ १ ॥

Segmented

एवम् मनः-धारणया क्रमेण व्यपोह्य किंचित् समुपोह्य किंचित् ध्यानानि चत्वारि अधिगम्य योगी प्राप्नोति अभिज्ञाः नियमेन पञ्च

Analysis

Word Lemma Parse
एवम् एवम् pos=i
मनः मनस् pos=n,comp=y
धारणया धारणा pos=n,g=f,c=3,n=s
क्रमेण क्रमेण pos=i
व्यपोह्य व्यपवह् pos=vi
किंचित् कश्चित् pos=n,g=n,c=2,n=s
समुपोह्य समुपवह् pos=vi
किंचित् कश्चित् pos=n,g=n,c=2,n=s
ध्यानानि ध्यान pos=n,g=n,c=2,n=p
चत्वारि चतुर् pos=n,g=n,c=2,n=p
अधिगम्य अधिगम् pos=vi
योगी योगिन् pos=n,g=m,c=1,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
अभिज्ञाः अभिज्ञ pos=a,g=f,c=2,n=p
नियमेन नियम pos=n,g=m,c=3,n=s
पञ्च पञ्चन् pos=n,g=f,c=2,n=p