Original

सुवर्णहेतोर् अपि पांसुधावको विहाय पांसून् बृहतो यथादितः ।जहाति सूक्ष्मान् अपि तद्विशुद्धये विशोध्य हेमावयवान् नियच्छति ॥ ६६ ॥

Segmented

सुवर्ण-हेतोः अपि पांसु-धावकौ विहाय पांसून् बृहतो यथा आदितस् जहाति सूक्ष्मान् अपि तद्-विशुद्धये विशोध्य हेम-अवयवान् नियच्छति

Analysis

Word Lemma Parse
सुवर्ण सुवर्ण pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
अपि अपि pos=i
पांसु पांसु pos=n,comp=y
धावकौ धावक pos=a,g=m,c=1,n=d
विहाय विहा pos=vi
पांसून् पांसु pos=n,g=m,c=2,n=p
बृहतो बृहत् pos=a,g=m,c=2,n=p
यथा यथा pos=i
आदितस् आदितस् pos=i
जहाति हा pos=v,p=3,n=s,l=lat
सूक्ष्मान् सूक्ष्म pos=a,g=m,c=2,n=p
अपि अपि pos=i
तद् तद् pos=n,comp=y
विशुद्धये विशुद्धि pos=n,g=f,c=4,n=s
विशोध्य विशोधय् pos=vi
हेम हेमन् pos=n,comp=y
अवयवान् अवयव pos=n,g=m,c=2,n=p
नियच्छति नियम् pos=v,p=3,n=s,l=lat