Original

क्व चिद् भुक्त्वा यत् तद् वसनम् अपि यत् तत् परिहितोवसन्न् आत्मारामः क्व चन विजने योऽभिरमते ।कृतार्थः सज् ञेयः शमसुखरसज्ञः कृतमतिःपरेषां संसर्गं परिहरति यः कण्टकम् इव ॥ ५० ॥

Segmented

क्वचिद् भुक्त्वा यत् तत् वसनम् अपि यत् तद्-परिहितः वसन् आत्म-आरामः क्वचन विजने यो ऽभिरमते कृतार्थः स ज्ञेयः शम-सुख-रस-ज्ञः कृतमतिः परेषाम् संसर्गम् परिहरति यः कण्टकम् इव

Analysis

Word Lemma Parse
क्वचिद् क्वचिद् pos=i
भुक्त्वा भुज् pos=vi
यत् यद् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
वसनम् वसन pos=n,g=n,c=2,n=s
अपि अपि pos=i
यत् यद् pos=n,g=n,c=2,n=s
तद् तद् pos=n,comp=y
परिहितः परिधा pos=va,g=m,c=1,n=s,f=part
वसन् वस् pos=va,g=m,c=1,n=s,f=part
आत्म आत्मन् pos=n,comp=y
आरामः आराम pos=n,g=m,c=1,n=s
क्वचन क्वचन pos=i
विजने विजन pos=n,g=n,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽभिरमते अभिरम् pos=v,p=3,n=s,l=lat
कृतार्थः कृतार्थ pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
ज्ञेयः ज्ञा pos=va,g=m,c=1,n=s,f=krtya
शम शम pos=n,comp=y
सुख सुख pos=n,comp=y
रस रस pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
कृतमतिः कृतमति pos=a,g=m,c=1,n=s
परेषाम् पर pos=n,g=m,c=6,n=p
संसर्गम् संसर्ग pos=n,g=m,c=2,n=s
परिहरति परिहृ pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
कण्टकम् कण्टक pos=n,g=n,c=2,n=s
इव इव pos=i