Original

तस्य स्वर्गान् निववृते संकल्पाश्वो मनोरथः ।महारथ इवोन्मार्गाद् अप्रमत्तस्य सारथेः ॥ ५ ॥

Segmented

तस्य स्वर्गात् निववृते संकल्प-अश्वः मनः-रथः महा-रथः इव उन्मार्गात् अप्रमत्तस्य सारथेः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
स्वर्गात् स्वर्ग pos=n,g=m,c=5,n=s
निववृते निवृत् pos=v,p=3,n=s,l=lit
संकल्प संकल्प pos=n,comp=y
अश्वः अश्व pos=n,g=m,c=1,n=s
मनः मनस् pos=n,comp=y
रथः रथ pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
इव इव pos=i
उन्मार्गात् उन्मार्ग pos=n,g=m,c=5,n=s
अप्रमत्तस्य अप्रमत्त pos=a,g=m,c=6,n=s
सारथेः सारथि pos=n,g=m,c=6,n=s