Original

दोषांश् च कायाद् भिषगुज् जिहीर्षुर् भूयो यथा क्लेशयितुं यतेत ।रागं तथा तस्य मुनिर् जिघांसुर् भूयस्तरं रागम् उपानिनाय ॥ ४३ ॥

Segmented

दोषान् च कायाद् भिषज् उज्जिहीर्षुः भूयः यथा क्लेशयितुम् यतेत रागम् तथा तस्य मुनिः जिघांसुः भूयस्तरम् रागम् उपानिनाय

Analysis

Word Lemma Parse
दोषान् दोष pos=n,g=m,c=2,n=p
pos=i
कायाद् काय pos=n,g=m,c=5,n=s
भिषज् भिषज् pos=n,g=m,c=1,n=s
उज्जिहीर्षुः उज्जिहीर्षु pos=a,g=m,c=1,n=s
भूयः भूयस् pos=a,g=n,c=2,n=s
यथा यथा pos=i
क्लेशयितुम् क्लेशय् pos=vi
यतेत यत् pos=v,p=3,n=s,l=vidhilin
रागम् राग pos=n,g=m,c=2,n=s
तथा तथा pos=i
तस्य तद् pos=n,g=m,c=6,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
जिघांसुः जिघांसु pos=a,g=m,c=1,n=s
भूयस्तरम् भूयस्तर pos=a,g=m,c=2,n=s
रागम् राग pos=n,g=m,c=2,n=s
उपानिनाय उपानी pos=v,p=3,n=s,l=lit