Original

कासां चिद् आसां वदनानि रेजुर् वनान्तरेभ्यश् चलकुण्डलानि ।व्याविद्धपर्णेभ्य इवाकरेभ्यः पद्मानि कारण्डवघट्टितानि ॥ ३८ ॥

Segmented

कासांचिद् आसाम् वदनानि रेजुः वन-अन्तरेभ्यः चल-कुण्डलानि व्याविद्ध-पर्णेभ्यः इव आकरेभ्यः पद्मानि कारण्डव-घट्टितानि

Analysis

Word Lemma Parse
कासांचिद् कश्चित् pos=n,g=f,c=6,n=p
आसाम् इदम् pos=n,g=f,c=6,n=p
वदनानि वदन pos=n,g=n,c=1,n=p
रेजुः राज् pos=v,p=3,n=p,l=lit
वन वन pos=n,comp=y
अन्तरेभ्यः अन्तर pos=n,g=n,c=5,n=p
चल चल pos=a,comp=y
कुण्डलानि कुण्डल pos=n,g=n,c=1,n=p
व्याविद्ध व्याव्यध् pos=va,comp=y,f=part
पर्णेभ्यः पर्ण pos=n,g=m,c=5,n=p
इव इव pos=i
आकरेभ्यः आकर pos=n,g=m,c=5,n=p
पद्मानि पद्म pos=n,g=n,c=1,n=p
कारण्डव कारण्डव pos=n,comp=y
घट्टितानि घट्टय् pos=va,g=n,c=1,n=p,f=part