Original

पुष्यन्ति के चित् सुरभीर् उदारा मालाः स्रजश् च ग्रथिता विचित्राः ।कर्णानुकूलान् अवतंसकांष् च प्रत्यर्थिभूतान् इव कुण्डलानाम् ॥ २० ॥

Segmented

पुष्यन्ति केचित् सुरभीः उदाराः मालाः स्रजः च ग्रन्थिता विचित्राः कर्ण-अनुकूलान् अवतंसकान् च प्रत्यर्थि-भूतान् इव कुण्डलानाम्

Analysis

Word Lemma Parse
पुष्यन्ति पुष् pos=v,p=3,n=p,l=lat
केचित् कश्चित् pos=n,g=m,c=1,n=p
सुरभीः सुरभि pos=n,g=f,c=2,n=p
उदाराः उदार pos=a,g=f,c=2,n=p
मालाः माला pos=n,g=f,c=2,n=p
स्रजः स्रज् pos=n,g=f,c=2,n=p
pos=i
ग्रन्थिता ग्रन्थय् pos=va,g=f,c=2,n=p,f=part
विचित्राः विचित्र pos=a,g=f,c=2,n=p
कर्ण कर्ण pos=n,comp=y
अनुकूलान् अनुकूल pos=a,g=m,c=2,n=p
अवतंसकान् अवतंसक pos=n,g=m,c=2,n=p
pos=i
प्रत्यर्थि प्रत्यर्थिन् pos=n,comp=y
भूतान् भू pos=va,g=m,c=2,n=p,f=part
इव इव pos=i
कुण्डलानाम् कुण्डल pos=n,g=n,c=6,n=p