Original

श्रुत्वा ततः सद्व्रतम् उत्सिसृक्षुं भार्यां दिदृक्षुं भवनं विविक्षुम् ।नन्दं निरानन्दम् अपेतधैर्यम् अभ्युज्जिहीर्षुर् मुनिर् आजुहाव ॥ १ ॥

Segmented

श्रुत्वा ततः सत्-व्रतम् उत्सिसृक्षुम् भार्याम् दिदृक्षुम् भवनम् विविक्षुम् नन्दम् निरानन्दम् अपेत-धैर्यम् अभ्युज्जिहीर्षुः मुनिः आजुहाव

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
ततः ततस् pos=i
सत् सत् pos=a,comp=y
व्रतम् व्रत pos=n,g=n,c=2,n=s
उत्सिसृक्षुम् उत्सिसृक्षु pos=a,g=m,c=2,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
दिदृक्षुम् दिदृक्षु pos=a,g=m,c=2,n=s
भवनम् भवन pos=n,g=n,c=2,n=s
विविक्षुम् विविक्षु pos=a,g=m,c=2,n=s
नन्दम् नन्द pos=n,g=m,c=2,n=s
निरानन्दम् निरानन्द pos=a,g=m,c=2,n=s
अपेत अपे pos=va,comp=y,f=part
धैर्यम् धैर्य pos=n,g=m,c=2,n=s
अभ्युज्जिहीर्षुः अभ्युज्जिहीर्षु pos=a,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
आजुहाव आह्वा pos=v,p=3,n=s,l=lit