Original

तन्नाथवृत्तैर् अपि राजपुत्रैर् अराजकं नैव रराज राष्ट्रम् ।तारासहस्रैर् अपि दीप्यमानैर् अनुत्थिते चन्द्र इवान्तरीक्षम् ॥ ६० ॥

Segmented

तद्-नाथ-वृत्तैः अपि राज-पुत्रैः अराजकम् ना एव रराज राष्ट्रम् तारा-सहस्रैः अपि दीप्यमानैः अन् उत्थिते चन्द्र इव अन्तरीक्षम्

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
नाथ नाथ pos=n,comp=y
वृत्तैः वृत् pos=va,g=m,c=3,n=p,f=part
अपि अपि pos=i
राज राजन् pos=n,comp=y
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
अराजकम् अराजक pos=a,g=n,c=1,n=s
ना pos=i
एव एव pos=i
रराज राज् pos=v,p=3,n=s,l=lit
राष्ट्रम् राष्ट्र pos=n,g=n,c=1,n=s
तारा तारा pos=n,comp=y
सहस्रैः सहस्र pos=n,g=n,c=3,n=p
अपि अपि pos=i
दीप्यमानैः दीप् pos=va,g=n,c=3,n=p,f=part
अन् अन् pos=i
उत्थिते उत्था pos=va,g=m,c=7,n=s,f=part
चन्द्र चन्द्र pos=n,g=m,c=7,n=s
इव इव pos=i
अन्तरीक्षम् अन्तरीक्ष pos=n,g=n,c=1,n=s