Original

कुन्दैः सविभ्रमवधूहसितावदातैर् उद्द्योतितान्युपवनानि मनोहराणि ।चित्तं मुनेरपि हरन्ति निवृत्तरागं प्रागेव रागमलिनानि मनांसि यूनाम् ॥

Segmented

कुन्दैः स विभ्रम-वधू-हसित-अवदातैः उद्द्योतितानि उपवनानि मनोहराणि चित्तम् मुनेः अपि हरन्ति निवृत्त-रागम् प्राक् एव राग-मलिनानि मनांसि यूनाम्

Analysis

Word Lemma Parse
कुन्दैः कुन्द pos=n,g=m,c=3,n=p
pos=i
विभ्रम विभ्रम pos=n,comp=y
वधू वधू pos=n,comp=y
हसित हसित pos=n,comp=y
अवदातैः अवदात pos=a,g=m,c=3,n=p
उद्द्योतितानि उद्द्योतय् pos=va,g=n,c=1,n=p,f=part
उपवनानि उपवन pos=n,g=n,c=1,n=p
मनोहराणि मनोहर pos=a,g=n,c=1,n=p
चित्तम् चित्त pos=n,g=n,c=2,n=s
मुनेः मुनि pos=n,g=m,c=6,n=s
अपि अपि pos=i
हरन्ति हृ pos=v,p=3,n=p,l=lat
निवृत्त निवृत् pos=va,comp=y,f=part
रागम् राग pos=n,g=n,c=2,n=s
प्राक् प्राञ्च् pos=a,g=n,c=2,n=s
एव एव pos=i
राग राग pos=n,comp=y
मलिनानि मलिन pos=a,g=n,c=2,n=p
मनांसि मनस् pos=n,g=n,c=2,n=p
यूनाम् युवन् pos=n,g=m,c=6,n=p