Original

प्रियङ्गुकालीयककुङ्कुमाक्तं स्तनेषु गौरेषु विलासिनीभिः ।आलिप्यते चन्दनम् अङ्गनाभिर् मदालसाभिर् मृगनाभियुक्तम् ॥

Segmented

प्रियङ्गु-कालीयक-कुङ्कुम-अक्तम् स्तनेषु गौरेषु विलासिनीभिः आलिप्यते चन्दनम् अङ्गनाभिः मद-अलसाभिः मृगनाभि-युक्तम्

Analysis

Word Lemma Parse
प्रियङ्गु प्रियङ्गु pos=n,comp=y
कालीयक कालीयक pos=n,comp=y
कुङ्कुम कुङ्कुम pos=n,comp=y
अक्तम् अञ्ज् pos=va,g=n,c=1,n=s,f=part
स्तनेषु स्तन pos=n,g=m,c=7,n=p
गौरेषु गौर pos=a,g=m,c=7,n=p
विलासिनीभिः विलासिनी pos=n,g=f,c=3,n=p
आलिप्यते आलिप् pos=v,p=3,n=s,l=lat
चन्दनम् चन्दन pos=n,g=n,c=1,n=s
अङ्गनाभिः अङ्गना pos=n,g=f,c=3,n=p
मद मद pos=n,comp=y
अलसाभिः अलस pos=a,g=f,c=3,n=p
मृगनाभि मृगनाभि pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part