Original

नखपदचितभागान् वीक्षमाणाः स्तनान्तान् अधरकिसलयाग्रं दन्तभिन्नं स्पृशन्त्यः ।अभिमतरतवेषं नन्दयन्त्यस्तरुण्यः सवितुरुदयकाले भूषयन्त्याननानि ॥

Segmented

नख-पद-चित-भागान् वीक्षमाणाः स्तन-अन्तान् अधर-किसलय-अग्रम् दन्त-भिन्नम् स्पृशन्त्यः अभिमत-रम्-वेषम् नन्दय् तरुण्यः सवितुः उदय-काले भूषयन्ति आननानि

Analysis

Word Lemma Parse
नख नख pos=n,comp=y
पद पद pos=n,comp=y
चित चित pos=a,comp=y
भागान् भाग pos=n,g=m,c=2,n=p
वीक्षमाणाः वीक्ष् pos=va,g=f,c=1,n=p,f=part
स्तन स्तन pos=n,comp=y
अन्तान् अन्त pos=n,g=m,c=2,n=p
अधर अधर pos=n,comp=y
किसलय किसलय pos=n,comp=y
अग्रम् अग्र pos=n,g=n,c=2,n=s
दन्त दन्त pos=n,comp=y
भिन्नम् भिद् pos=va,g=n,c=2,n=s,f=part
स्पृशन्त्यः स्पृश् pos=va,g=f,c=1,n=p,f=part
अभिमत अभिमन् pos=va,comp=y,f=part
रम् रम् pos=va,comp=y,f=part
वेषम् वेष pos=n,g=m,c=2,n=s
नन्दय् नन्दय् pos=va,g=f,c=1,n=p,f=part
तरुण्यः तरुण pos=a,g=f,c=1,n=p
सवितुः सवितृ pos=n,g=m,c=6,n=s
उदय उदय pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
भूषयन्ति भूषय् pos=v,p=3,n=p,l=lat
आननानि आनन pos=n,g=n,c=2,n=p